|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.216. अध्यायः 216
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेण पार्वतींप्रति त्रिवर्गनिरूपणम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
महेश्वर उवाच।
पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च।
यूपे निबध्य मन्त्रैश्च यथान्यायं यथाविधि।
मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि॥ 13-216-1(89831)
तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने।
अग्नयस्त्रिदशाश्चैव लोकपाला महेश्वराः। 13-216-2(89832)
तेषु तुष्टेषु जायेत यस्य यज्ञस्य यत्फलम्।
तेन संयुज्यते देवि यजमानो न संशयः॥ 13-216-3(89833)
सपत्नीकः सपुत्रश्चि पित्रा च भ्रातृभिः सह।
ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते॥ 13-216-4(89834)
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ 13-216-5(89835)
उमोवाच। 13-216-6x(7489)
भगवन्सर्वभूतेश शूलपाणे महाद्युते।
श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम्॥ 13-216-6(89836)
कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो।
प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम्॥ 13-216-7(89837)
वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम्।
एतत्सर्वं समासेन वक्तुमर्हसि मानदः॥ 13-216-8(89838)
महेश्वर उवाच। 13-216-9x(7490)
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि।
प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम्॥ 13-216-9(89839)
तेषां संरक्षणार्थाय राजानः संस्कृता भुवि।
सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणुः॥ 13-216-10(89840)
विद्या वार्ता च सेवा च कारुत्वं नाट्यता तथा।
इत्यते जीवनार्थाय मर्त्यानां विहिताः प्रिये॥ 13-216-11(89841)
अपि जन्मफलं तावन्मानुषाणां विशेषतः।
विहितं तत्स्ववृत्तेन तन्मे शृणु समाहिताः॥ 13-216-12(89842)
कर्मक्षेत्रं हि मानुष्यं सुखदुःखयुताः परे।
सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तिरिष्यते॥ 13-216-13(89843)
विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते।
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा॥ 13-216-14(89844)
विद्यया स्फीयते ज्ञानं ज्ञानात्तत्वनिदर्शनम्।
दृष्टतत्वो विनीतात्मा सर्वार्थस्य च भाजनम्॥ 13-216-15(89845)
शक्यं विद्याविनीतेन लोके संजीवनं शुभम्॥ 13-216-16(89846)
आत्मानं विद्यया तस्मात्पूर्वं वृत्वा तु भाजनम्।
वश्येन्द्रियो जितक्रोधो भूतात्मानं तु भावयेत्।
भावयित्वा तदाऽऽत्मानं पूजनीयः सतामपि॥ 13-216-17(89847)
कुलानुवृत्तं वृत्तं वा पूर्वमात्मा समाश्रयेत्।
इत्येतत्कुलवासाय दानकर्म यथा पुरा॥ 13-216-18(89848)
यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः।
राजविद्यानुवादेऽपि लोकविद्यामथापि वा।
तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः॥ 13-216-19(89849)
ग्रन्थतश्चार्थतश्चैव दृढं कुर्यात्प्रयत्नतः।
एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः।
न्यायाद्विद्याफलानीच्छेदधर्मं तत्र वर्जयेत्॥ 13-216-20(89850)
यदिच्छेद्वार्तया वृत्तिं काङ्क्षेत विधिपूर्वकम्।
क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत्॥ 13-216-21(89851)
वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः।
मूल्यमर्थं प्रयासं च विचार्यैव व्ययोदयौ॥ 13-216-22(89852)
पशुसंजीवनं चैव दश गाः पोषयेद्ध्रुवम्।
बहुप्रकारा बहवः पशवस्तस्य साधकाः॥ 13-216-23(89853)
यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः।
यतात्मा श्रवणीयानां भवेद्वै सम्प्रयोजकः॥ 13-216-24(89854)
बुद्ध्या वा कर्मयोगाद्वा बोधनाद्वा समाश्रयेत्।
मार्गतस्तु समाश्रित्य तदा तत्सम्प्रयोजयेत्॥ 13-216-25(89855)
यथायथा सु तुष्येत तथा संतोषयेत्तु तम्।
अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितम्॥ 13-216-26(89856)
विप्रियं नाचरेत्तस्य एषा सेवा समासतः।
विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत्॥ 13-216-27(89857)
कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु।
तयोरपि यथायोगं न्यायतः कर्मवेतनम्॥ 13-216-28(89858)
आजीवेभ्योऽपि सर्वभ्यः स्वार्जवाद्वेतनं हरेत्।
अनार्जवादाहरतस्तत्तु पापाय कल्पते॥ 13-216-29(89859)
सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम्।
आत्मशक्तिमुपायांश्च देशकालौ च युक्तितः।
कारणानि प्रयासं च प्रक्षेपं च फलोदयम्॥ 13-216-30(89860)
एवमादीनि सञ्चिन्त्य दृष्ट्वा दैवानुकूलताम्।
अतः परं समारम्भेद्यत्रात्महितमाहितम्॥ 13-216-31(89861)
वृत्तिमेव समासाद्य तां सदा परिपालयेत्।
देवमानुषविघ्नेभ्यो न पुनर्मन्यते यथा॥ 13-216-32(89862)
पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत्।
क्षीयते गिरिसङ्काशमश्नतो ह्यनपेक्षया॥ 13-216-33(89863)
आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः।
धर्मायार्थाय कामाय आपत्प्रशमनाय च॥ 13-216-34(89864)
चतुर्ष्वपि विभागेषु विधानं शृणु शोभने॥ 13-216-35(89865)
यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात्।
देवब्राह्मणपूजार्थं पितृपूजार्थमेव च॥ 13-216-36(89866)
मूलार्थं सन्निवासार्थं क्रियानित्यैश्चि धार्मिकैः।
एवमादिषु चान्येषु धर्मार्थं संत्यजेद्धनम्॥ 13-216-37(89867)
धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम्।
ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात्॥ 13-216-38(89868)
वार्तायां च समारम्भेऽमात्यमित्रपरिग्रहे।
आवाहे च विवाहे च पुत्राणां वृत्तिकारणात्॥ 13-216-39(89869)
अर्थोदयसमावाप्तावनर्थस्य विघातने।
एवमादिषु चान्येषु अर्थार्थं विसृजेद्धनम्॥ 13-216-40(89870)
अनुबन्धं हेतुयुक्तं दृष्ट्वा वित्तं परित्यजेत्।
अनर्थं बाधते ह्यर्थो अर्तं चैव फलान्युत॥ 13-216-41(89871)
नाधनाः प्राप्नुन्त्यर्थं नरा यत्नशतैरपि।
तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः॥ 13-216-42(89872)
शरीरपोषणार्थाय आहारस्य विशोषणे।
नट*****धर्वसंयोगे कामयात्राविहारयोः॥ 13-216-43(89873)
मनःप्रियाणां संयोगे प्रीतिदाने तथैव च।
एवमादिषु चान्येषु कामार्तं विसृजेद्धनम्॥ 13-216-44(89874)
विचार्य गुणदोषांस्तु त्रयाणां तत्र संत्यजेत्।
चतुर्थं सन्निदध्याच्च आपदर्थं शुचिस्मिते॥ 13-216-45(89875)
राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने।
महाव्याधिविमोक्षार्थं वार्धकस्यैव कारणात्॥ 13-216-46(89876)
शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात्।
प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे।
एवमादि समुद्दिश्य सन्निदध्यात्स्वकं धनम्॥ 13-216-47(89877)
सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम्।
यस्य नास्ति धनं किञ्चित्तस्य लोकद्वयं न च॥ 13-216-48(89878)
अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते।
निधानमात्रं यस्तेषामन्यथा विलयं व्रजेत्।
एवं देवि मनुष्याणां लोकानां जीवनं प्रति॥ 13-216-49(89879)
एवं लोकस्य वृत्तस्य लोकवृत्तं पुनः शृणु।
धन्यं यशस्यमायुष्यं स्वर्ग्यं च परमं यशः॥ 13-216-50(89880)
त्रिवर्गो हि वशे युक्तः सर्वेषां संविधीयते।
तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः॥ 13-216-51(89881)
काल्योत्थानं च शौचं च देवब्राह्मणभक्तितः।
गुरुणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम्॥ 13-216-52(89882)
प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम्।
आभिमुख्यं पुरस्कृत्य अतिथीनां च पूजनम्॥ 13-216-53(89883)
वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः।
पोषणं भूत्यवर्गस्य सान्त्वदानपरिग्रहे॥ 13-216-54(89884)
न्यायतः कर्मकरणमन्यायाहितवर्जितम्।
सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम्॥ 13-216-55(89885)
पुत्राणां विनयं कुर्यात्तत्तत्कार्यनियोजनम्।
वर्जनं चाशुभार्थानां शुभानां जोषणं तथा॥ 13-216-56(89886)
कुलोचितानां धर्माणां यतावत्परिपालनम्।
कुलसन्धारणं चैव पौरुषेणैव सर्वशः।
एवमादि शुभं सर्वं तस्य वृत्तमिति स्थितम्॥ 13-216-57(89887)
वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया।
परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वथा।
न याचेत परान्धीरः स्वबाहुबलमाश्रयेत्॥ 13-216-58(89888)
स्वशरीरं सदा रक्षेदाहाराचारयोरपि।
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया॥ 13-216-59(89889)
देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि।
शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम्॥ 13-216-60(89890)
प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वतः।
गृहस्थवासी सततं तद्याद्गाश्चैव पोषयेत्॥ 13-216-61(89891)
बहिर्निष्क्रमणं चैव कुर्यात्कारणतोपि वा।
मध्याह्ने वाऽर्धरात्रे वा गमनाय न रोचयेत्॥ 13-216-62(89892)
विषयान्नावगाहेत स्वशक्त्या तु समाचरेत्।
यथाऽऽयव्ययता लोके गृहस्थानां प्रपूजितम्॥ 13-216-63(89893)
अयशस्करमर्थघ्नं कर्म यत्परपीडनम्।
भयाद्वा यदि लोभाद्वा न कुर्वीत कदाचन॥ 13-216-64(89894)
बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः।
आरभेत तदा कर्भ शुभं वा यदि वेतरत्॥ 13-216-65(89895)
आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे।
मनसा कर्मणा वाचा न च काङ्क्षेत पातकम्॥ ॥ 13-216-66(89896)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकद्विशततमोऽध्यायः॥ 216 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|